←Back
श्री वेद व्यास स्तुति
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 1
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 2
कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ 3
वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ 4
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥ 5
शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ 6
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ 7
व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरञ्जीवी दीर्घमायुर्ददातु जटिलो मम ॥ 8
प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ 9
जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ 10
भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥ 11
जयति पराशरसूनुः सत्यवती हृदयनन्दनो व्यासः ।
यस्यास्य कमलगलितं भारतममृतं जगत्पिबति ॥ 12
वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्ति मते ॥ 13
वेदान्तवाक्यकुसुमानि समानि चारु
जग्रन्थ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥ 14
इति श्री वेदव्यास स्तुतिः ।